Category Archives: STOTRAM

બિલ્વાષ્ટકમ્

બિલ્વાષ્ટકમ્


ત્રિદળં ત્રિગુણાકારં ત્રિનેત્રં ચ ત્રયાયુધમ | 
ત્રિજન્મપાપસંહારમેકબિલ્વં શિવાર્પણમ ||૧|| 
ત્રિશાખૈર્બિલ્વપત્રૈશ્ચ હ્યચ્છિદ્રૈઃ કોમળૈઃ શુભૈઃ | 
શિવપૂજાં કરિષ્યામિ હ્યેકબિલ્વમ શિવાર્પણમ ||૨|| 
અખણ્ડબિલ્વપત્રેણ પૂજિતે નન્દિકેશ્વરે | 
શુધ્યન્તિ સર્વપાપેભ્યો હ્યેકબિલ્વમ શિવાર્પણમ ||૩|| 
શાલિગ્રામશિલામેકાં વિપ્રાણાં જાતુ અર્પયેત | 
સોમયજ્ઞમહાપુણ્યમ હ્યેકબિલ્વમ શિવાર્પણમ ||૪|| 
દન્તિકોટિસહસ્રાણિ અશ્વમેધશતાનિ ચ | 
કોટિકન્યામહાદાનમ હ્યેકબિલ્વમ શિવાર્પણમ ||૫|| 
લક્ષ્મ્યાઃસ્તનત ઉત્પન્નં મહાદેવસ્ય ચ પ્રિયમ | 
બિલ્વવૃક્ષં પ્રયચ્છામિ હ્યેકબિલ્વમ શિવાર્પણમ ||૬|| 
દર્શનં બિલ્વવૃક્ષસ્ય સ્પર્શનં પાપનાશનમ | 
અઘોરપાપસંહારમ હ્યેકબિલ્વમ શિવાર્પણમ ||૭|| 
મૂલતો બ્રહ્મરૂપાય મધ્યતો વિષ્ણુરૂપિણે | 
અગ્રતઃ શિવરૂપાય હ્યેકબિલ્વમ શિવાર્પણમ ||૮|| 
બિલ્વાષ્ટકમિદં પુણ્યં યઃ પઠેચ્છિવસન્નિધૌ | 
સર્વપાપવિનિર્મુક્તઃ શિવલોકમવાપ્નુયાત ||૯|| 
ઇતિ બિલ્વાષ્ટકં સંપૂર્ણમ ||

from Blogger https://ift.tt/3l8lTfl
via IFTTT

Shri Maruti Stotra श्रीमारुति स्तोत्रं

https://ift.tt/2EvKGXl

मारुतिस्तोत्रम् 
श्रीगणेशाय नम: ॥ 
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । 
प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । 
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । 
भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । 
शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । 
ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । 
मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय । 
मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । 
व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन 
शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन । अमुकं मे वशमानय । 
क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय । 
श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय 
चूर्णय चूर्णय खे खे 
श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु 
ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा 
विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु । 
हन हन हुं फट् स्वाहा ॥ 
एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥ 
इति श्रीमारुतिस्तोत्रं संपूर्णम् ॥ 

एकदन्तस्तोत्रम्

https://ift.tt/2XoGhgc

एकदन्तस्तोत्रम्
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः।
भृग्वादयश्च मुनयः एकदन्तं समाययुः ॥१॥
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात्
तुष्टुवुर्हर्षसंयुक्ताः एकदन्तं गणेश्वरम् ॥२॥
सदात्मरूपं सकलादिभूत-
ममायिनं सोहमचिन्त्यबोधम्।
अनादिमध्यान्तविहीनमेकं
तमेकदन्तं शरणं व्रजामः ॥३॥
अनन्तचिद्रूपमयं गणेशं
ह्यभेदभेदादिविहीनमाद्यम्।
हृदि प्रकाशस्य धरं सुधीस्थं
तमेकदन्तं शरणं व्रजामः ॥४॥
विश्वादिभूतं हृदि योगिनां वै
प्रत्यक्षरूपेण विभान्तमेकं।
सदा निरालंबसमाधिगम्यं
तमेकदन्तं शरणं व्रजामः ॥५॥
स्वबिंबभावेन विलासयुक्तं
बिंबस्वरूपा रचिता स्वमाया।
तस्यां स्ववीर्यं प्रददाति यो वै
तमेकदन्तं शरणं व्रजामः ॥६॥
त्वदीयवीर्येण समर्थभूता
माया तया संरचितञ्च विश्वम्।
नादात्मकं ह्यात्मतया प्रतीतं
तमेकदन्तं शरणं व्रजामः ॥७॥
त्वदीयसत्ताधरमेकदन्तं
गणेशमेकं त्रयबोधितारम्।
सेवन्त आपुस्तमजं त्रिसंस्था-
स्तमेकदन्तं शरणं व्रजामः ॥८॥
ततस्त्वया प्रेरित एव नाद-
स्तेनेदमेवं रचितं जगद्वै ।
आनन्दरूपं समभावसंस्थं
तमेकदन्तं शरणं व्रजामः ॥९॥
तदेव विश्वं कृपया तवैव
संभूतमाद्यं तमसा विभातम्।
अनेकरूपं ह्यजमेकभूतं
तमेकदन्तं शरणं व्रजामः ॥१०॥
ततस्त्वया प्रेरितमेव तेन
सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्मकं श्वेतमनन्तमाद्यं
तमेकदन्तं शरणं व्रजामः ॥११॥
तदेव स्वप्नं तमसा गणेश
संसिद्धिरूपं विविधं बभूव।
सदेकरूपं कृपया तवापि
तमेकदन्तं शरणं व्रजामः ॥१२॥
संप्रेरितं तच्च त्वया हृदिस्थं
तथा सुसृष्टं जगदंशरूपम्
तेनैव जाग्रन्मयमप्रमेयं
तमेकदन्तं शरणं व्रजामः ॥१३॥
जाग्रत्स्वरूपं रजसा विभातं
विलोकितं त्वत्कृपया यदैवम्।
तदा विभिन्नं भवतेकरूपं
तमेकदन्तं शरणं व्रजामः ॥१४॥
एवञ्च सृष्ट्वा प्रकृतस्वभावा-
त्तदन्तरे त्वञ्च विभासि नित्यम्।
बुद्धिप्रदाता गणनाथ एक
स्तमेकदन्तं शरणं व्रजामः ॥१५॥
त्वदाज्ञया भान्ति ग्रहाश्च सर्वे
नक्षत्ररूपाणि विभान्ति खे वै।
आधारहीनानि त्वया धृतानि
तमेकदन्तं शरणं व्रजामः ॥१६॥
त्वदाज्ञया सृष्टिकरो विधाता
त्वदाज्ञया पालक एव विष्णुः।
त्वदाज्ञया संहरको हरोऽपि
तमेकदन्तं शरणं व्रजामः ॥१७॥
यदाज्ञया भूर्जलमध्यसंस्था
यदाज्ञयापः प्रवहन्ति नद्यः।
सीमां सदा रक्षति वै समुद्र-
स्तमेकदन्तं शरणं व्रजामः ॥१८॥
यदाज्ञया देवगणो दिविस्थो
ददाति वै कर्मफलानि नित्यम्।
यदाज्ञया शैलगणोऽचलो वै
तमेकदन्तं शरणं व्रजामः ॥१९॥
यदाज्ञया शेष इलाधरो वै
यदाज्ञया मोहप्रदश्च कामः।
यदाज्ञया कालधरोऽर्यमा च
तमेकदन्तं शरणं व्रजामः ॥२०॥
यदाज्ञया वाति विभाति वायु-
र्यदाज्ञयाग्निर्जठरादिसंस्थः।
यदाज्ञया वै स चराचरञ्च
तमेकदन्तं शरणं व्रजामः ॥२१॥
सर्वान्तरे संस्थितमेकगूढं
यदाज्ञया सर्वमिदं विभाति।
अनन्तरूपं हृदि बोधकं वै
तमेकदन्तं शरणं व्रजामः ॥२२॥
यं योगिनो योगबलेन साध्यं
कुर्वन्ति तं कः स्तवनेन स्तौति।
अतः प्रणामेन सुसिद्धिदोऽस्तु
तमेकदन्तं शरणं व्रजामः ॥२३॥
  
एवं स्तुत्वा च प्रह्लाद!
देवास्समुनयश्च वै।
तूष्णींभावं प्रपद्यैव ननृतुर्हर्षसंयुताः ।।२४॥
स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै।
जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः॥२५॥
प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल।
वृणुत वरदोहं हे दास्यामि मनसेप्सितम् ॥२६॥
भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मे
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥२७॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः
पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ॥२८॥
गजाश्वादिकमत्यन्त राज्यभोगं लभेत् ध्रुवम्।
भुक्तिं मुक्तिं च योगं वै लभते शन्तिदायकम् ॥२९॥

श्रीहनुमत्स्तोत्रम्

https://ift.tt/2U6Fxuj

श्रीहनुमत्स्तोत्रम्
अक्षादिराक्षसहरं दशकण्ठदर्प-
निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम्
सीताविषह्यदुःखनिवारकं तं
वायोः सुतं गिलितभानुमहं नमामि
॥ १ ॥
मां पश्य पश्य हनुमन् निजदृष्टिपातैः
मां रक्ष रक्ष परितो रिपुदुःखवर्गात्
वश्यां कुरु त्रिजगतीं वसुधाधिपानां
मे देहि देहि महतीं वसुधां
श्रियं च ॥ २ ॥
आपद्भ्यो रक्ष सर्वत्र आञ्जनेय
नमोऽस्तु ते ।
बन्धनं छिन्धि मे नित्यं कपिवीर
नमोऽस्तु ते ॥ ३ ॥
दुष्टरोगान् हन हन रामदूत नमोऽस्तु
ते ।
उच्चाटय रिपून् सर्वान् मोहनं
कुरु भूभुजाम् ॥ ४ ॥
विद्वेषिणो मारय त्वं त्रिमूर्त्यात्मक
सर्वदा ।
सञ्जीवपर्वतोद्धार मनोदुःखं
निवारय ॥ ५ ॥
घोरानुपद्रवान् सर्वान् नाशयाक्षासुरान्तक
एवं स्तुत्वा हनूमन्तं नरः
श्रद्धासमन्वितः ॥ ६ ॥
पुत्रपौत्रादिसहितः सर्वसौख्यमवाप्नुयात्
। ७ ।